SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [७५९ ], भाष्यं [ १२३...] | अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र पट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद् एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्र शब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात् तयोश्च शतभेदत्वादिति गाथार्थः ॥ एएहिं दिट्टिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणन्भुवगमो अहिगारो तिहि उ ओसन्नं ॥ ७६० ।। व्याख्या- 'एभिः ' नैगमादिभिर्नयैः सप्रभेदैर्दृष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्व्यतिरेकेणापि च वस्तुसम्भवात्, 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु १, श्रोत्रपेक्षं कार्या, तत्राप्यधिकार स्त्रिभिराद्यैः 'उत्सन्नं' प्रायस इति गाथार्थः । आह-' इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थमिति, उच्यते णत्थि णएहि विणं सुतं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं गए णयविसारओ बूया ॥ ७६१ ॥ व्याख्या -- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्य विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिं, तुशब्दः पुनःशब्दार्थे, किम् ? -नयान्नयविशा Education intimatio For Fasten www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~572~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy