________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७३९], भाष्यं [१२३...]
कारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्तं - शोभनं च तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविधं द्विभेदं त्रिविधं त्रिभेदं च ज्ञातव्यं, चश व्दश्चतुर्विधाद्यनुक्तकारणभेदसमुच्चयार्थ इति गाथार्थः ॥ यदुक्तं- 'संसारस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहअस्संजमो य एक्को अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥ ७४० ॥
व्याख्या- 'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञानं कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावद्ययोगानिवृत्तिरिति तथा मिथ्यात्वमज्ञानं चाविरतिश्चैव त्रिविधं तु संसारकारणं, तत्र मिथ्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम्, एवं कषायादिसम्पर्कादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः ॥ उक्तमप्रशस्तं भावकारणम्, अधुना प्रशस्तमुच्यते
होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चैव य विवरीयं अंहिगारो पत्थरणेत्थं ॥ ७४१ ॥
व्याख्या - भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' च संसारकारणम् असंयमादि विपरीतं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकार' प्रस्ताव: 'प्रशस्तेन' भावकारणेन 'अत्र' सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्त
For Farina Pat Use Only
www.lincibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 560~