________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७३८ ], भाष्यं [ १२३...]
॥२७८॥
आवश्यक- धमित्याह- कर्त्ता च कारणं, तस्य कार्ये स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षित कार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा करणं च मृत्पिण्डादि करणं, तस्य साधकतमत्वात्, तथा कर्म च कारणं क्रियते निर्वर्त्यते यत्तत्कर्म-कार्यम्, आह- तत्कथमलब्धात्मलाभं तदा कारणमिति?, अत्रोच्यते, कार्यनिर्वर्त्तनक्रियाविषयत्वात्तस्योपचारात्कारणता, उक्तं च- “निर्वर्त्य वा विकार्य वा प्राप्यं वा यत्क्रियाफलम् । तत् दृष्टादृष्टसंस्कारं कर्म कर्तुर्थदीप्सितम् ॥ १ ॥ इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, सम्यक् सत्कृत्य या प्रयलेन दानं सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किंतु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद्, 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्यादपादानतेति, सा व घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्य तत्सन्निधानम्-अधिकरणं तच्च घटस्य चक्रं तस्यापि भूः, तस्या अप्याकाशम्, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्ठितत्वात्, घटस्य चेदं कारणम्, एतदभावे घटानुत्पत्तेरिति गाथार्थः ॥ उक्तं द्रव्यकारणम्, इदानीं भावकारणप्रतिपादनायाह
Jus Educato
दुविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥ ७३९ ॥ व्याख्या - भवतीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च' द्विप्र
For Parts Only
हारिभद्री• यवृत्तिः"
विभागः १
~ 559~
॥ २७८ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः