________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educa
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ ६९३ ], भाष्यं [ ११९...]
कारणे' गच्छतः 'आवस्सिया होइ' आवश्यकी भवतीति गाथार्थः ॥ आह-कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति १, नेति, कस्य तर्हि ?, उच्यते -
आवस्सिया उ आवस्सएहिं सव्वेहिं जुप्तजोगिस्स । मणवयणकायगुसिंदियस्स आवस्सिया होइ ॥ ६९४ ।।
व्याख्या - आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किम् ? - आवश्यकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम् अस्ति चायं न्याय: - 'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो' यथा ब्राह्मणा आयाता | वशिष्टोऽप्यायात इति गाथार्थः । उक्ताssवश्यिकी, साम्प्रतं नैषेधिक प्रतिपादयन्नाह
सेनं ठाणं च जहिं चेएइ तर्हि निसीहिया होइ। जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ ॥ ६९५ ॥ व्याख्या---शेरतेऽस्यामिति शय्या - शयनीयस्थानं तां शय्यां 'स्थानं चे 'ति स्थानमूर्ध्वस्थानं', कायोत्सर्गः, यत्र 'चेतयते' 'चिती सज्ञाने' अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याः क्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्य शेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तत्र' एवंनमुकं प्र० 1 शय्या प्र० 1 प्रतिक्रमणाचशेपैः कार्यैः समापितावश्यककृत्यर्थः
* कारणात् प्र० + किमुच्यते प्र०
Forest Use Only
janyr
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~534~