________________
आगम
(४०)
“आवश्यक”- मूलसूत्र
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१९], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
आवश्यक
18
प्रत
॥२४॥
सूत्राक
अक्खर सण्णी सम्मं, साईयं खलु सपजवसि च । गमियं अंगपविटुं, सत्तथि एए सपडिवक्खा ॥१९॥ हारिभद्री
व्याख्या-तत्र 'अक्षरश्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, 31 यवृत्तिः किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रयवत इति भावार्थः, विभागः१ इत्थंभूतभावाक्षरीकारणत्वादू अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान क्षरति न च शीयते इत्यक्षरं, तच समासतस्त्रिविधं, तद्यथा-संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राहयादिलिपीविधानादनेकविधं । तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जन, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षर, तह सर्वमेव भाष्यमाणं अकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत् लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदाव रणक्षयोपशमो वा । अत्र च संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्त, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षरं तु भावाक्षरं, विज्ञानात्मकत्वादिति । तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ।। १९ ।। उक्तमक्षरश्रुतं, इदानीमनक्षर श्रुतस्वरूपाभिधित्सयाह
दीप
अनुक्रम
भाष्यमाणशब्दस्वैव यजमाक्षरत्वादाह-अर्थाभीश्यादि, प्रवेकं विभिचाक्षराणामाभिव्यञ्जकस्वाभायात् . २ रूपक्षराणि संशाम्य अनोभया ॥२४॥ पाण्याश्रित्य इन क्षरतीत्यादिव्युत्पश्या चेतनामाश्रित्य. + प्रग्यवतीति. २-५. इथंभूतो.1.1 भावा०५-५.६ कुरष्टिसं०1-2- रण्टिकासं०२ विस्मकर्म1-२-३-४.
~51~