________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
इति गाधार्थः ॥ १७ ॥ इदानी सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहकत्तो मे वण्णे, सत्ती सुयणाणसव्वपयडीओ। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि ॥१८॥ | व्याख्या-कुतो !, नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः'सामर्थ्य, काः-प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वांश्च ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वेप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः, कथं न शक्तिः, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च-"तेऽविय मईविसेसे, सुयणाणभंतरे जाण" ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान न भाषते, तेपामनन्तत्वात् आयुषः। परिमितत्वात् वाचः क्रमवृत्तित्वाचेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेप' निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तब श्रुतज्ञाने सम्यकश्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभय श्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये'। अभिधास्ये इति गाथाथैः॥ १८॥ साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनाहि-.
(वियोषावश्यके १४३ ) तानपि च मतिविशेषान् धुतज्ञानाभ्यन्तरे जानीहि. २ असंज्ञिना वक्ष्यमाणरपि नियमाभावासं जिनां सम्यक्श्रुतस्य न तहणं. ३ एकस्य परस्परविरुधर्माश्रयस्वाभावादाह-दर्शनेत्यादि, दर्शनशब्दमान श्रद्धानार्थः. नामस्थापनादब्याणामनादरः अप्रधानत्यादिनाश्मे वक्ष्य. मागरवाडा, श्रुतस्कम्भे भावभुते ये भेदालातुर्दशा तदपेक्षया चात्र चतुर्दशविधनिक्षेपेति, अधिकारावतरणिकैपेति च स्वरूपति, अक्षरसंश्यादिद्वाराणां च नात | एव पृथक् सूत्राणि, + नास्तीदं 1-1-1-५. * चतुर्दशनिक्षेप०२.
दीप
अनुक्रम
~ 50 ~