________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
तु भाज्या इति ५। तथा कषाय इति द्वारं' कषायाः क्रोधमानमाया लोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्राद्येषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति शेषेषु तु पश्चेन्द्रियेबद् योज्यम् ६ तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेश्याः कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति ७। तथा 'सम्यक्त्वद्वारं' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह— सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिवोधिकप्रतिपत्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्वाह - सम्यग्दृष्टिः पूर्वप्रतिपनः प्रतिपद्यमानश्च आभिनिबोधिकज्ञान लाभस्य, सम्यग्दर्शन सहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तुनोऽनुत्पत्तिप्रसङ्गात् न चेरथं तत्प्रतिपत्त्यनवस्थेति ८ तथा 'ज्ञानद्वार' तत्र ज्ञानं पञ्चप्रकारं, मतिश्रुतावधिमनःपर्याय केवल भेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतंमतिश्रुतावधिमनः पर्याय ज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति मत्यादिलाभस्य सम्यग्दर्शन सहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञान विभङ्गज्ञान
१] सास्वादन कालस्यापवादविवक्षेति मलधारिपादाः २ शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमान भजना, पूर्वमवाप्याधुना तदुपयोगे तब्ध वा वर्त माना अग्र प्रतिपक्षत्वेन माझा नतु प्रतिपद्य व उज्झितवले. बन्धिषु ४ + नेदं १३. कलाभस्य १-३-५-६ वस्तुतो० ५-६.
Eucation International
For Penal Use On
~42~