________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jus Education
66
“आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
अध्ययनं [-], मूलं [− /गाथा - ], निर्युक्ति: [ ३६६], भाष्यं [३७...],
माहाणं १ वेए कासी अ २ पुच्छ ३ निव्वाणं ४
कुंथूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९ ॥ ३६६ ॥ ( मूलदारगाहा ) गमनिका - दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अ'त्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यस्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ'त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान् यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'णिबाणं'ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः ॥ ३६६ ॥ अवयवार्थ उच्यतेआद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थे तु 'पुणरवि' गाथेत्यादिना आह
पुणरवि अ समोसरणे पुच्छीअ जिणं तु चक्किणो भरहे। अप्पुट्ठो अ दसारे तित्थयरो को इहं भरहे ? || ३६७ ॥ गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरत - विशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिणे य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः संबन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिपदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः ॥ ३६७ ॥ तथा चाह नियुक्तिकारः -
* चक्रवर्ती
For Funny
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१ ]
~ 318~
www.ncbrary.org
" आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः