________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा-], निर्युक्तिः [१], भाष्यं [-] आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
मुनि दीपरत्नसागरेण संकलित
राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधर्म्यात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ॥ आह-- मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वर्परप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राह — एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्” (०ब्यनेकद्वादशभेदम् श्रीतत्त्वार्थे अ० १ सू० २० ) इति वचनात् तत्र यो मतिश्रुतपूर्वकत्वात्प्रत्यक्षत्वसाधर्म्याच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालविपर्ययादिसा म्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधर्म्यान्मनःपर्यायज्ञानस्य तदनन्तरं भावमुनिस्वाम्यादिसाधर्म्यात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥ १ ॥
साम्प्रतं 'यथोद्देशं निर्देश:' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य अभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते तच्चाभि
१ न शेषज्ञानानामित्यर्थः २ मत्यादीनामपि तेन स्वरूपनिरूपणात् ३ संक्षेपविवरणरूपत्वात् ४ भावश्रुतस्य ५ मिध्यादृखिज्ञानावासौ न प्रा मतिश्रुते स्त इति प्राय इति । ६ ज्ञानत्रयोपन्यासे ७ लाभादिग्रहः ८ पुलावलम्बनत्वादिः ९ विपर्ययाभावत्वादिः + अनोच्यते ।
आभिनिबोधिक/मति ज्ञानस्य स्वरुपम् एवं भेद-प्रभेदाः
For Parks Use One
~20~
harya