________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
अध्ययनं [-], मुनि दीपरत्नसागरेण संकलित
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [- / गाथा-], निर्युक्ति: [ १ ], आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
॥ ८ ॥
आवश्यक- ५ यथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृटेर्विभङ्गज्ञानं भवतीति विपर्ययसाधर्म्यात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाशी युगपज्ज्ञानत्रयं संभवतीति लाभसाधर्म्याश्च । तथा मनःपर्यवज्ञानं, अयं भावार्थ:-- | परिः सर्वतो भावे, अवनं अवः, अवनं गमनं |वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मैनसो वा पर्यवो मनःपर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं तेषु ज्ञानं मनःपर्यायज्ञानं तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं इदं चार्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, तथाशब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ?, छद्म स्वस्वामिसाधर्म्यात्, तथा पुद्गलमोंत्रालम्बनत्व साम्यात्, तथा क्षायोपशमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं तदावरणकर्ममल कलङ्काङ्करहितं सकलं वा केवलं तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारण वा केवलं, अनन्यसदृशमितिहृदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं यथावस्थिताशेष भूतभवद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तुकसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त
१ विषयसप्तमी. २ सम्बन्धे षष्टी. ३ दिना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतराणि वा मनोद्रव्याणि जानात्यनेनेति ज्ञापनाथ वा. ४ अरूपि म्यालम्बनस्यवच्छेदाप मात्रेति. ५ "जीवो अक्खो अत्यन्ावणभोयणगुणणिओ जेणं । तं पड़ बहह नाणं, जं पक्वं तयं तिविहं" (वि०८९) इति. ६ अपेक्षा सहावस्थानरूपा. ७ मत्यादीनां स्वावरणोपेत्तत्वात् अ लक्ष्म. ८ उत्पत्तिसमय एव. ९ म तारतम्यवत् म्यूनं या कदापि १० अन्यस्य कस्यापि रूप्यरूपि सूक्ष्मदूरेतरादिपदार्थां ग्राहकत्वात्. ११ आधारापेक्षयाऽसंख्येयत्वेऽपि व्यसंभवतो परि
Education International
For Par Use Only
~ 19~
हारिभद्री यवृत्तिः विभागः १
॥ ८ ॥