________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [−], मूलं [– /गाथा ], निर्युक्ति: [ १३६], भाष्यं [-]
ते'सिं इच्छियपडिच्छियववहारो एवं अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकणवणिओवमा एसा ॥ १ ॥ ७ ॥
इत्थंप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्यय:- प्रतिपक्षः आचार्यशिष्ययोर्यथायोगं योजनीयः, स च योजित एवेति गाथार्थः ॥ १३६ ॥ इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाह
कस्स न होही वेसो अनभुवगओअ निरुवगारी अ । अप्पच्छंदमईओ पद्विअओ गंतुकामो अ ॥ १३७ ॥ विणओणएहिं कriजलीहि छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुर्य बहुविहं लहुं देह ॥ १३८ ॥ आह- शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् ?, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्, अयो ग्याय व गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । प्रथमगाथाव्याख्या - कस्य न भविष्यति द्वेष्यः- अप्रीतिकरः यः किम्भूतः १ - अभ्युपगतः अनभ्युपगतः श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेप्यो भवतीत्यत आह-' निरुपकारी च निरुपकर्त्तुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्ता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेप्यः अत आह— 'प्रस्थितः '
1 तेषां ईच्छितीति (इप्सितप्रतीति) व्यवहार एवं आक्षेपनिर्णयप्रसङ्गदानमहणानुवर्त्तिनो द्वयेऽपि योग्या आचावैशिष्या टङ्कणयणिगुपमा एषा । * मुकेन.
For Parts Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~202~