________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [9], मूलं [सू.] / [गाथा १-४], नियुक्ति: [१५२३...] भाष्यं [२३१...],
(४०)
आवश्यक- हारिभद्रीया ॥७ ॥
कायोत्सगोंध्य. पतिक्रमणविधः
प्रत सूत्रांक ||गा.||
दीप अनुक्रम [४८-५२]
श्रुतधर्मस्य प्रोच्यते-'तमतिमिरपडलविद्धसणस्स सुरगणे त्यादि, तमः-अज्ञानं तदेव तिमिरं अथवा तमः-बद्धस्पृष्टनि- | धत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपट- लविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति, तृतीयाथै षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि-आगमवन्त एवं मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयास्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह-'जाईजरामरणे त्यादि, जाति:-उत्पत्तिः जरा-क्योहानिः मरण-प्राणत्यागः शोकः-मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्वेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मो कानुछानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्पं किं तु विशालं-विस्तीर्ण सुख-प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहतिप्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कःपाणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य-दृष्ट्वा विज्ञाय कुर्यात् प्रमाद, सचेतनमः१ चारित्रधर्म प्रमादः कर्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चि
७८८
andiorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1578~