________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१०७], भाष्यं [-]
(४०)
प्रत
सूत्राक
मुच्यते-एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव स्यायेन अपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण-"सम्मेत्तमि उ लद्धे पलियपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा हुति ॥ १ ॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अण्णतरसेढिवज एगभवेणं च सपाई ॥२॥" अभिहितं आनुषङ्गिक, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिछु । अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ! को वा खलु उपशमानादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहपढमिल्लुयाण उदए नियमा संजोयणा कसायाणं । सम्मईसणलंभं भवसिद्धीयाविन लहंति ॥१८॥
देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सनायादुपचयेन न देशविरतिप्रसङ्गः इति प्रथमपनाशकवृत्ती, २ सम्परवे तु कब्धे पल्योपमपृथकत्वेन श्रावको भवेत् । चरणोपशमक्षयेषु, सागराः संख्येवा अन्तरं भवति ॥१॥ एवममतिपतिते सम्पावे देवमनुषजम्मसु । अन्यतरणिय एकभवेनापि सर्वाणि ॥२॥ (विशे०१२२२-१२२३), श्रुतसम्यक्स्वादिप्राप्तिहेतुतया प्रसाः, नेदस्. + उपशमन तदिदानी क.. पपामादि.
दीप
अनुक्रम
S
wlanmiorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: सम्यक्त्व-आदि सामायिके आवरणं (अनन्तानुबन्धि कषायानां कारणे सम्यक्त्व आदीनाम् अलाभ:)
~156~