SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक॥ ७२ ॥ “आवश्यक”- मूलसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [-] मूलं [- /गाथा ], निर्युक्तिः [१०३], भाष्यं [-] शोधयतीति शोधकं, किं तदिति, आह—- तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचव रोज्झनक्रियया तच्छोधने कर्मकरपुरुपवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धी भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां चिन् * ( पा० ३-३-९४ ) आगन्तुककर्मकच वरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ? ' त्रयाणामपि ज्ञानादीनां किंविशिष्टानां १ - निश्चयतः | क्षायिकानां न तु क्षायिकोपशमिकानामिति, 'समायोगे' संयोगे 'मोक्ष' सर्वथाऽष्टविधकर्ममल वियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्, 'भणितः ' उक्तः । आह— 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ १०३ ॥ इह यत् प्राक् नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्त्तमानः सन्न प्राप्नोति मोक्षं' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वैयं हेतुरवगन्तव्यः, कुतः ? - तस्यें क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवासौ च मोक्षप्राप्तिरिति तस्थं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह १ ज्ञानविशेषत्वसाधनाय २ क्षायोपशमिकत्वरूपः ३ श्रुतस्य अपिना गृहीतस्य मत्यादेश, अवधेस्तु दृष्टान्तत्वान्नात्र महः ४ तथाच क्षायोपशमिके ज्ञानकिये क्षायिकज्ञानाद्यथा सिद्वारा मोक्षसाधनमिति ५ श्रुतज्ञाने वर्त्तमानख मोक्षानवाः सम्यग् योग: समायोगः तस्मिन् मो० + ०परूपत्वाद Education intimatol For Parts Only हारिभद्रीवृत्तिः विभागः १ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 147~ ॥ ७२ ॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy