________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [- / गाथा-], निर्युक्ति: [९६], भाष्यं [-]
अध्ययनं [ - ],
व्याख्या - येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः- प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमिं महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ॥ ९५ ॥ तथा श्रुतज्ञानमेव लब्धो निर्यामको येन-जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधाराधिष्ठि तोऽपि शेषं निगदसिद्धं, किन्तु 'निपुणोऽपि पण्डितोऽपि श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणं, तस्मात् तपः संयमानुष्ठाने खल्वप्रमादवता भवितव्यमिति गाथाद्वयार्थः ॥ ९६ ॥ तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः
संसारसागराओ उड्डो मा पुणो निबुडिया । चरणगुणविप्पहीणो बुडुद्द सुबहंपि जाणतो ॥ ९७ ॥ पदार्थस्तु दृष्टान्ताभिधानद्वारेणोच्यते यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मक निश्छिद्र पटलाच्छादितोदकान्धकारमहादान्तर्गतानेक जलचरक्षोभादिव्यसनव्यथितमानसः परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः | शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचित्तः तेषामपि तपस्विनामदृष्ट कल्याणानामहमिदं सुर| लोककल्पं किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्धोपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविध| शारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स
Education into
For Parts Only
www.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 142~