SearchBrowseAboutContactDonate
Page Preview
Page 1211
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] *** आवश्यक”- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], भवति - पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपि शुकुलेश्येति क्रमः कस्यैता भवन्त्यत आह- 'धर्मध्यानोपगतस्य' धर्मध्यान युक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह- 'तीनमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिखरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः ॥ ६६ ॥ उक्तं लेश्याद्वारम् इदानीं लिङ्गद्वारं विवृण्वन्नाह आगमणाणिसग्गओ जं विणप्पणीयाणं । भावाणं सद्द्दणं धम्मज्झाणस्स तं लिंगं ॥ ६७ ॥ व्याख्या - इहागमोपदेशाज्ञा निसर्गतो यद् 'जिनप्रणीतानां' तीर्थकरमरूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तलिङ्गं तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यायीति, इह चागमः - सूत्रमेव तदनुसारेण कथनम्-उपदेश: आज्ञा स्वर्थः निसर्गः स्वभाव इति गाथार्थः ॥ ६७ ॥ किं च जिणसाहूगुणकित्तणपसंसणाविणयाण संपण्णी । सुभसील संजमरभो धम्मज्झाणी मुणेयवो ॥ ६८ ॥ व्याख्या- 'जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः इह जिनसाधवः प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं - सामान्येन संशब्दनमुच्यते, प्रशंसा स्वहोश्लाघ्यतया भक्तिपूर्विका स्तुतिः, विनयः - अभ्युत्थानादि, दानम्-अशनादिप्रदानम्, एतत्सम्पन्नः एतत्समन्वितः तथा श्रुतशीलसंयमरतः, तत्र श्रुतं सामायिकादिविन्दुसारान्तं शीलं - त्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः, किं ? - धर्मध्यानीति ज्ञातव्य इति गाथार्थः ॥ ६८ ॥ गतं लिङ्गद्वारम् अधुना फलद्वारावसरः, तंच्च लाघवार्थं शुकुध्यान मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1210~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy