________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७९], भाष्यं [-]
(४०)
KACC
प्रत
सूत्राक
च॥१॥" इत्यादि, तथा " सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्ती” चतुर्विंशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात कथञ्चित् शास्त्रान्तरत्वाश्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह-सामायिकान्वाख्यानेऽधिकृते को हि दशवकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्वयमेवोपोधात इति,ट। अलं प्रपञ्चेन । तच्चेदं मङ्गलम्तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी । तिपणे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥ ८॥
गमनिका-तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तू प्लवनतरणयोः' इत्यस्य 'पात्तुदिवचिसिचिरिचिभ्यस्थम् ( उणादौ पा०२-१७२) इति थक्प्रत्ययेऽनुबन्धलोपे च कृते 'ऋत इद्वा धातोः (पा०७-१-१००) इति इत्ये रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य 'चरेष्टः' (पा०३-२-१५) | इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने ' कृजो हेतुताच्छील्यानुलोम्येषु'(पा०३-२-२०) इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थ, तच नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थ नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ तरिता तरणं तरणीयं च सिद्ध पुरुषबाडुपनद्यादि, द्रव्यता चास्येत् तीर्णस्यापि पुनस्तरणीयभावात् , अनेकान्तिकत्वात् , स्नानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य
शेषेष्वपि अध्ययनेषु भवत्यथैव नियुक्तिः (नियुक्तौ )२ मनास्तिकत्वात्. * ध्वपि. + स्वाच्छामा प्रप्सोन. प्रायोऽनु.
दीप
अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: मङ्गलार्थे तिर्थंकर-आदीनाम् वन्दनं एवं तिर्थकरादि शब्दानाम् व्याख्या:
~ 120~