________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
ॐEG
प्रत सूत्रांक
[सू...]
ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ चन विशेषः। सत्योश्चित्यपचित्योरा|कृतिजातिव्यवस्थानात् ॥१॥' आदिशब्दादगुरुलध्वादिपयायपरिग्रहः, चशब्दः समुच्चयार्थे इति गाथार्थः ॥५२॥ किं च--
पंचस्थिकायमइयं लोगमणाइणिरुणं जिणवसायं । णामाइभेयविहियं तिविहमहोलोषभेयाई ॥ ५३ ॥ व्याख्या-'पश्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यात'मिति, क्रिया पूर्ववत्, तत्रास्तयः-प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याद्युपग्रहकरा ज्ञेया इति, उक्तं च-"जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥ जीवानां पुद्गलानां च, स्थित्युपनहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥२॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्बदाकाशमवकाशदम् ॥ ३ ॥ ज्ञानात्मा सर्वभावज्ञो, भोका कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥४॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः॥५॥" तन्मयं-तदास्मक, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह–'अनाद्यनिधनम् अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-'जिनाख्यातं' तीर्थकरप्रणीतम् , आह-'जिनदेशितानित्यस्माजिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात् , आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम्-"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्म
दीप अनुक्रम [२१..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1202 ~