SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४४], भाष्यं [२०४...], (४०) प्रत सूत्रांक १.. सपडिक्कमणोधम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥१२४४ ॥ Ni व्याख्या-सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना र्यापथागतेनोचारादिविवेके उभय-10 कालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच, एतेष्वेव स्थानेषु 'मध्यमानां जिनानाम् || अजितादीनां पार्थपर्यन्तानां 'कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाञ्चेति गाथार्धः ॥ १२४४ ॥ तथा चाह ग्रन्धकारः जो जाहे आवन्नो साहू अन्नयरयंमि ठाणमि । सो ताहे पडिक्कमई मज्झिमयाणं जिणवराणं ॥ १२४५ ॥ व्याख्या-'यः साधुरिति योगः 'यदा' यस्मिन् काले पूर्वाह्लादौ 'आपन्नः' प्राप्तः 'अन्यतरस्मिन् स्थाने प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्ष वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ॥ १२४५॥ आह-किमयमेवं भेदः प्रतिक्रमणकृतः ? आहोश्विदन्योऽप्यस्ति !, अस्तीत्याह, यतःबावीसं तित्थयरा सामाइयसंजम उवासंति । छेओवट्ठावणयं पुण वयन्ति उसभो य वीरोय ॥१२४६॥ व्याख्या-द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिक संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति-प्रथमतीर्थकरचरमतीर्थकरतीर्थेषु हि प्रनजितमात्रः सामायिकसंयतो भवति तावद् यावच्छत्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत् , अधुना तु षड्जीवनिकायावगमं यावत् तया पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थान प्राप्त दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | प्रतिक्रमणस्य नित्यतादि विधानं ~1128~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy