________________
आगम
(४०)
प्रत
सूत्रांक
॥७..॥
दीप
अनुक्रम
[s..]
आवश्यकहारिभ
द्रीया
॥५३२॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११६० ], भाष्यं [ २०४...],
व्याख्या- 'दशारसिंहस्य' अरिष्टनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः 'अनुतरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ?-दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि बिना चारित्रेण 'अधरां गतिं गता' नरकगतिं प्राप्ता इति वृत्तार्थः ॥ ११६० ॥ किं च-
सयाओवि गईओ अविरहिया नाणदंसणघरेहिं । ता मा कासि पमायं नाणेण चरितरहिएणं ॥। ११६१ ॥ व्याख्या- 'सर्वा अपि' नारकतिर्यनरामरगतयः 'अविरहिताः' अविमुक्ताः, कै: ?-ज्ञानदर्शनधरैस्सच्चैः, यतः - सर्वा स्वेव सम्यक्त्व श्रुतसामायिकद्वयमस्त्येव, न च नरकगतिव्यतिरेकेणान्यासु मुक्तिः, चारित्राभावात्, तस्माचारित्रमेव प्रधानं मुक्तिकारणं, तद्भावभावित्वादिति यस्मादेवं 'तं मा कासि पमायं'ति तत् तस्मान्मा कार्षीः प्रमादं, ज्ञानेन चारित्ररहितेन तस्येष्टफलासाधकत्वात्, ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः । ११६१ ॥ इतश्च चारित्रमेव प्रधानं, निय मेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह च
सम्मतं अचरितस्स हुज भगणाइ नियमसो नस्थि । जो पुण चरितजुत्तो तस्स उ नियमेण सम्मसं ॥ ११३२ ॥
व्याख्या---' सम्यक्त्वं' प्राग्वर्णितस्वरूपम् 'अचारित्रस्य चारित्ररहितस्य प्राणिनो भवेत् 'भजनया' विकल्पनया-कदाचिद्भवति कदाचिन्न भवति, 'नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात् यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात्, 'नियमेन' अवश्यतया सम्यक्त्वम्, अतः सम्यक्त्वस्यापि निय मतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः । ११६२ ॥ किं च----
३ वन्दनाध्ययने दर्शनपक्षः
~ 1067 ~
||५३२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः