________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [११५८], भाष्यं [२०४...],
(४०)
*
*
*
%
%
-
प्रत सूत्रांक
||७..||
चापि प्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साए'त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः 'समीक्ष्य दृष्ट्वा 'प्रज्ञया' बुझ्या दर्शनविपाक तीर्थकराख्यफलप्रसाधकं वरं खुदंसणन्ति खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः ॥११५८॥ किंच-शक्य एयोपाये प्रेक्षावतःप्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवन, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानवादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तभंश उपजायते सर्वस्यैवातः
भटेण चरित्ताओ सुहुपरं दंसणं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिझंति ॥ ११५९॥ व्याख्या-'भ्रष्टेन' युतेन, कुतः१-चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, पुनर्वाधिलाभानुबन्धिशक्यमोक्षोपायत्वात् । तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभाविवादित्ययं गाथार्थः ॥११५९ ॥ इत्थं चोदकाभिप्राय उक्तः, साम्पतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासी नरकमगमत् , असहायदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च
दसारसीहस्स य सेणियस्सा, पेढालपुत्सस्स य सच्चइस्स। अणुत्तरा दसणसंपया तया, विणा चरित्तेणऽहरं गई गया ॥ ११६०॥
दीप अनुक्रम [९..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~10664