________________
आगम
(४०)
प्रत
सूत्रांक
॥७..॥
दीप
अनुक्रम
[s..]
आवश्यक
इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दृष्टान्तैरसहायस्य ज्ञानस्यैहिकामुष्मिकफलाहारिभ-साधकत्वमुक्तम्, एवमत्रापि दर्शनाभिलापेन द्रष्टव्यं, दिमात्रं तु प्रदर्श्यते यथा 'तीक्ष्णरुचिरपि नरः' तीव्रश्रद्धोऽपि पुरुषः, क्क :- गन्तुं देशान्तर देशान्तरगमन इत्यर्थः 'नयविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः प्राप्नोति न तं देशं गन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तु न प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति तस्मात्रितयं प्रधानम्, अतत्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, 'सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्ग' (तत्त्वा.अ. १सू. १) इति वचनादयं गाथात्रितयार्थः॥१-२-३॥ एवमपि तत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराह धम्मनियत्तमईया परलोगपरम्हा विसयगिद्धा । चरणकरणे असत्ता सेणिधरायं ववइति ॥ ११५७ ।। व्याख्या - धर्मः - चारित्रधर्मः परिगृह्यते तस्मान्निवृत्ता मतिर्येषां ते धर्मनिवृत्तमतयः, परः- प्रधानो लोकः परलोको - मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धाः शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराज व्यपदिशन्त्यालम्बन मिति गाथार्थः ॥ ११५७ ॥ कथं १
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [३], मूलं [-] / [ गाथा- ७...], निर्युक्तिः [१९५६ ], भाष्यं [ २०४...], प्रक्षेप [१-३]
द्रीया
॥ ५३१ ॥
सेणिओ आसि तथा बहुस्सुओ, न यावि पन्नतिधरो न वायगो । सो आगमिस्साइ जिणो भविस्सह, समिक्ख पन्नाइ वरं खु दंसणं ।। ११५८ ॥ व्याख्यान 'श्रेणिकः' नरपतिरासीत् 'तदा' तस्मिन् काले 'बहुश्रुतः' बह्रागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न
२ वन्दना
ध्ययने सम्युक्रम्यां मोक्षः
~1065~
॥५३१॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः