________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं 11 [गाथा-७...], नियुक्ति: [११५५], भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
||७..||
सम्यक्त्वं ज्ञानस्येति गाधार्थः ॥ ११५५ ॥ स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्धाविनोरिति, अत्रीच्यते- कारणकजविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नंपि तहा हेऊ नाणस्स सम्मत्तं ॥ ११५६ ॥
व्याख्या-यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपजन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा 'हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वाद्दर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तं च-"द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महेतोर्द्विपदस्य, सम्यग्दर्शनमिष्यते ॥१॥" अयं गाथाभिप्रायार्थः ॥ ११५६ ॥ इत्थं नोदकेनोक्ते सत्याहाचार्यःनाणस्स जइवि हेऊ सविसपनिययं तहावि सम्मत्तं । तम्हा फलसंपत्ती न जुज्जए नाणपक्खे व ॥१॥(प्र०) जह तिक्खरुईवि नरो गंतु देसंतरं नयविहणो । पावेह न तं देसं नयजुत्तो चेव पाउणइ ॥२॥ (प्र.) इय नाणचरणहीणो सम्मद्दिष्ठीवि मुक्खदेस तु । पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ॥३॥ (प्र.)
व्याख्या-दमन्यकर्तृक गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमिति योगः, अपिशब्दोऽभ्युपगमवादसंसूचका, अभ्युपगम्यापि ब्रमः, तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपशमकार्यत्वात् , स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषु रुचिरेव, तथाऽपि 'तस्मात् सम्यक्त्वात् 'फलसंपत्ती ण जुज्जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिन घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष
%2525-51555
दीप
अनुक्रम [९..]
A
4%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1064