________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं - [गाथा-७...], नियुक्ति: [११६३], भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
||७..||
जिणवयणयाहिरा भाषणाहिं उव्वट्टणं अयाणता । नेरइयतिरियएगिदिएहि जह सिझई जीवो ॥ ११६३ ।।
व्याख्या-'जिनवचनवाह्या' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिँति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्धयति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्षं प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्वत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्धर्तना कारणवैकल्यं सूचयतीति गाथार्थः ॥ ११६३ ।। पुनरपि चारित्रपक्षमेव समर्थयन्नाह
सुमुवि सम्मट्टिी न सिझई चरणकरणपरिहीणो। जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ॥ ११६४ ॥ व्याख्या-'सुष्टुपि' अतिशयेनापि सम्यग्दृष्टिन सिस्यति, किम्भूतः १-चरणकरणपरिहीणः, तद्बादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकपि असद्दहतो मिच्छंति वचनात , अथवा सुतृपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सियति चरणकरणपरिहीणा, श्रेणिकादिवत्, किमिति ?-यदेव सिद्धिमूल-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ ११६४ ॥ किं च-अयं केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधो, कस्य तहि भवति !, अत आह
दसणपक्खो सावय चरित्तभडे य मंदधम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥११६५ ॥
दीप
अनुक्रम [९..]
SCRNAMA
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1068~