________________
आगम
(४०)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[s..]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११३५], भाष्यं [ २०४...],
व्याख्या - यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा - व्रतादयस्तेषु सङ्कल्पः- अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणं निमित्तं मुनिगुणसङ्कल्प कारणं 'लिङ्गं' द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिनेसावधकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः क्लेशफलवासी, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात्, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्य कर्मरहितत्वात् प्रतिमानाम्, आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति उच्यते, तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः ॥ ११३५ ॥ तथा चाऽऽह
नियमा जिणेसु उ गुणा पडिमाओ दिस्स जे मणे कुणइ । अगुणे उ विद्याणतो कं नमउ मणे गुणं काउं ॥ ११३६ ॥
व्याख्या—'नियमादि'ति नियमेनावश्यंतथा 'जिनेष्वेव' तीर्थंकरेष्वेव तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' 'चेतसि स्थापयति पुनर्नमस्करोति, अत एवासी तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावयकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभय विकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणे उ' इत्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अवबुध्यमानः पार्श्वस्थादीन् 'के नमउ भणे गुणं कार्ड' कं मनसि गुणं कृत्वा नमस्करोतु तानिति, स्थादेतत्-अन्यसाधुसम्बन्धिनं तेष्यध्यारो
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1054~