________________
आगम
(४०)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[..]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११२६], भाष्यं [ २०३...],
त्सम्प्रकटसेवी न भवत्यपि अतस्तग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ॥ ११२६ ॥ किं तत्क्रियत इत्यत आह---
वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं बंदणं वावि ॥ ११२७ ॥ व्याख्या- 'वाया'ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतरपुरुषकार्यापेक्षं वा तस्यैव 'नमोकारो' ति नमस्कारः क्रियते हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो य'त्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं 'ति[हुमानस्त ]त्सन्निधावासनं कञ्चित्कालमिति, एष तावद्वहिर्दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ॥ ११२७ ॥ एतच वाङ्मस्कारादि नाविशेषेण क्रियते, किं तर्हि ?
परिया परिपुरिसे विन्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ।। ११२८ ॥ व्याख्या - पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं 'णच्च'ति ज्ञात्वा - विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथाह' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्यं' समनुरूपं वाङ मस्कारादि तत्तस्य क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥ ११२८ ॥ साम्प्रतमवयवार्थे प्रतिपादयन्नाह भाष्यकार:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः 'छोभवंदनस्य स्वरुपम् वर्ण्यते
~ 1050 ~