________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं - [गाथा-७...], नियुक्ति: [११०२...], भाष्यं [२०३...]
(४०)
आवश्यक हारिभद्रीया
३ वन्दना ध्ययने वन्दनपयोया
प्रत सूत्रांक
॥५१
॥
||७..||
वन्दनं-निरूपितमेव, 'चिञ् चयने अस्य 'त्रियां किन्' (पा. ३-३-९४ ) कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणायुपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत् , 'डुकृञ् | करणे' अस्यापि तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षायावनामादिचेटिव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म बन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चार्य, कचित्कारकयाचकः 'कर्तुरीप्सिततमं कर्मे ( पा० १-४-४९) ति वचनात्, क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' (तत्त्वा० अ० १० सू० ३) इति वचनात्, कचित् क्रियावाचकः, 'गन्धर्वा रजिताः सर्वे, समामे भीमकर्मणे ति वचनात् , इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश हल'(पा०३-३-१०३) इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दःपूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः,'णीज् प्रापणे' इत्यस्य एरचि(पा०३-३-५६) ति अचमत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाऽनेनाष्टप्रकार कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आहकायर्ष कस्स व केण बावि काहे व कइखुत्तो॥११०२ ॥ कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं ।।
कइदोसविप्पमुकं किइकम्मं कीस कीरइ वा ॥११०३ ॥
दीप
अनुक्रम
[९..]
SHOCIA4SEX
॥५१॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'वन्दन'कृतिकर्मादि भेदानाम व्याख्या कथानकसहितं
~ 1025~