________________
आगम
आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [३], मूलं - [गाथा-७...], नियुक्ति: [११०२...], भाष्यं [२०३...]
(४०)
अथ तृतीयं वन्दनाध्ययनम्
-
-00-000
--
प्रत सूत्रांक
||७..||
साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्य यने सावद्ययोगविरतिलक्षणसामा-15 दायिकोपदेष्टणामहतामुत्कीर्तनं कृतम्, इह त्वहंदुपदिष्टसामायिकगुणवत एवं चन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते,
यद्वा-चतुर्विंशतिस्तवेऽहंद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्-'भत्तीऐं जिणवराणं खिजंती पुवसंचिआ कम्मत्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-"विणओवयार माणस्स भंजणा पूयणा गुरुजणस्सू । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ॥१॥" अथवा सामायिके चारित्रमुपवणितं, चतुर्विंशतिस्तवे त्वहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम् , अस्य च वितथासेवनायामै हिकामुष्मिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि समपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरू-|
प्यते-वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे (पा०३-३-११७)ति ल्युट् 'युवोरनाकावि'(पा०७-१-१)त्यनादेशः, द'इदितो नुम् धातोरिति (पा०७-१-५८)नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाकायव्यापारजालेनेति वन्दनम्, |अस्थाधुना पयोयशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकार:
बंदणचिइकिइकम्मं पूयाकर्म च विणयकम्मं च। विनयोपचारः मानव भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधाराधनाऽक्रिया ॥१॥
दीप
BROADCASS
अनुक्रम [९..]
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: • अत्र अध्ययनं -३- 'वन्दनं' आरभ्यते
~ 1024 ~