________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७५], भाष्यं [-]
(४०)
प्रत
सूत्राक
इदानीं मनःपर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपशकक्रमायातमभिधित्सुराह
मणपज्जवनाणं पुण जणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिषद्धं गुणपच्चइयं चरितवओ॥ ७६॥ __ व्याख्या-'मनःपर्यायज्ञानं ' प्राकृनिरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिवन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः,
तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, हैतं प्रकटयति प्रकाशयति जनमन:परिचिन्तितार्थप्रकटनं, मानुषक्षेत्र-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निवद्धं, तद्वहि~
वस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एघ प्रत्ययाः-कारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमौंषध्यादिऋद्धि-8 प्राप्तस्यैवेति गाथार्थः॥७६॥ इदं द्रव्यादिभिर्निरूप्यते-तत्र द्रव्यतो मनःपर्याय ज्ञानी अर्धेतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनो-1 भावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोत चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभार्ग
भादिना उनस्थस्या मिसाधर्म्यम् , २ भेदयदित्यर्थः ३ योगरूढतया नरा एष स्युः, परं संशिपजेन्द्रियग्रहणायैवं व्युत्पादन. * पागणं.
दीप
अनुक्रम
AIMEducatan intimational
rajancibansarm
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अथ मन:पर्यवज्ञानस्य वक्तव्यता
~ 100~