________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-१], नियुक्ति: [१०७९], भाष्यं [२०३...]
(४०)
आवश्यक हारिभद्रीया
प्रत
॥५०॥
सुत्राक
॥१॥
MSRCESS
परूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविष
कावपःचतुर्कि यत्वे च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, नवरं-"निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं है शतिस्तवा. ज्ञानमेवं सर्वत्रगं द्वयम् ॥१॥" इत्यनया दिशा स्वयमेवाभ्यूह्यमिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिकेवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इतिकृत्वा । आह-इहाकाण्ड एवं केवलचारित्रिण इति किमर्थम् व्याख्या. उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ॥ १०७९ ॥ व्याख्याता तावल्लोकस्वेत्यादिरूपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यवस्थाने विशेषतो निर्दिश्य(श्ये)ते-तत्र लोकस्योद्योतकरानित्यायुक्तम्, अत्राऽऽह-अशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्वात्मकत्वेन परिमितत्वात् , केवलो-18 द्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वाद्, वक्ष्यति च-केवलियणाणलंभो लोगालोग पगासेइ'त्ति, ततश्चौधत एवोद्योतकरान लोकालोकयोति वाच्यमिति, न, अभिप्रायापरिज्ञानात् , इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एषालोक इति न पृथगुक्तः, न चैतदनार्ष, यत उक्तम्-'पंचस्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्योयोतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्ववघिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तथ्यवच्छेदार्थ धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानित्येतावदे-!
कैवल्यज्ञानलाभो लोकालोकं प्रकाशयति २ पनास्तिकावमयो लोक
दीप
अनुक्रम
[३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1003~