________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं [-] / [गाथा-१], नियुक्ति: [१०७६], भाष्यं [२०३...]
(४०)
प्रत
सूत्राक
||१||
जियकोहमाणमाया जियलोहा तेण ते जिणा हुँति । अरिणो हंता रयं हंता अरिहंता तेण बुचंति ॥ १०७६ ॥
व्याख्या-जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्त:, किं:-जिना भवन्ति, 'अरिणो हंता रयं हिते'त्यादिगाथादलं यथा नमस्कारनियुक्ती प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ १०७६ ।। कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ।। १०७७ ॥
व्याख्या कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान, स्तवाानित्यर्थः, कस्येत्यत्राह-सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एवं कर्मविनयाद् विनयः, इति गाथार्थः ॥ १०७७॥ चउवीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसहग्गहणा पुण एरवयमहाविदेहेसुं॥१०७८॥
व्याख्या-चतुर्विंशतिरिति सञ्जया, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐवतमहाविदेहेषु ये तहोऽपि वेदितव्य इति गाथार्थः ॥ १०७८ ॥
कसिणं केवलकप्पं लोग जाणति तह य पासंति । केबलचरित्तनाणी तम्हा ते केवली हति ।। १०७९॥ 3 व्याख्या-कृत्स्नं सम्पूर्ण 'केवल कल्प' केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-"सामर्थे वर्णनायां
च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥" 'लोक' पश्चास्तिकायात्मकं जानन्ति विशे-18
दीप
5+
अनुक्रम
[३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | अरिहंत, कीर्तयिष्यामि, चतुर्विशति, अपि केवलि आदि शब्दानाम् व्याख्या:
~ 1002~