________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं [-] / [गाथा-१], नियुक्ति: [१०७९], भाष्यं [२०३...]
(४०)
-
-2-
प्रत
2-
सूत्राक
||१||
वास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अबोच्यते, इह लोकेऽपि नद्यादिविषमस्थानेषु मुधिकया(ये)धर्मार्थमवतरण-| दातीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः, तदपनोदाय लोक स्योद्योतकरान-1
प्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयम
तानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तव्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शनेदूज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥' इत्यादि, तन्नून न
ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाकरप्रभवो , बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञान
पांसुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्करं जन्तोः ॥१॥" तथा-"दग्धे बीजे | द्विा यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाधरः ॥१॥” इति । आह-ययेवं जिनानित्येता-13 देवदेवास्तु लोकस्योद्योतकरानित्याचतिरिच्यते इति, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्ट श्रुतधरादयोऽपि जिना
एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाच, तन्मा भूत्तेषु सम्प्रत्यय इति तदप-12 नोदार्थ लोकस्योद्योतकरानित्याद्यप्यदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अहव्यतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त । ताईत एवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थक, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात् । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतां केवलित्वाव्यभिचारात्, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात्, तथा च-सम्भवे
दीप
अनुक्रम
[३]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1004 ~