________________
आगम
(१८)
ཟླ + ཋལླཱ ཡྻ
守
[६२-६७]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३],
मूलं [४५] + गाथा:
मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
| अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्च द्विधा ध्यानात्मकः चिन्तात्मकश्च तत्र आद्यः स्थिराध्यवसायलक्षणस्तथाविधदृढसंहननादिगुणोपेतानां द्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति, तयोर्मध्येऽयं चिन्तितः| चिन्तारूपश्चेत सोऽनवस्थितत्वात् स चानभिलाषात्मकोऽपि स्यादित्यत आह- प्रार्थितः - प्रार्थनाविषयः, अयं मम | मनोरथः फलेग्रहिर्भूयादित्यभिलाषात्मक इत्यर्थः, मनोगतो-मनस्येव यो गतो न बहिर्वचनेन प्रकाशित इति, सङ्कल्पः | समुदपद्यत, तमेवाह-उत्पन्नः खलुः - निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्त्ती तत् तस्माज्जीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणा' मिति मागधतीर्थस्याधिपतिः कुमारो मागधतीर्थकुमारः मध्यपदलोपेन समासः, | कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वात् तन्नामकानां देवानां राज्ञां नरदेवानां उपस्थानिकं--प्राभृतं कर्तु | सद् गच्छामि णमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा - इति मनसिकृत्य एवं वक्ष्य| माणं निजर्द्धिसारं संप्रेक्षते-पर्यालोचयति, ततः किं करोतीत्याह - 'संपेहेत्ता' इत्यादि सम्प्रेक्ष्य च हारादीनि प्रतीतानि | चकारः सर्वत्र समुच्चये शरं च भरतस्य प्रत्यर्पणाय नामाहतं नामाहताङ्कमिति निर्देशे कर्त्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहतं लक्षणया लिखितं यत्र स तथा तं मागधतीर्थोदकं च राज्याभिषेकोपयोगि एतानि गृहावीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह- 'गिण्डित्ता ताएं उकिट्टाए' इत्यादि, गृहीत्वा च तया दिव्यया देव
Fur Fraternae Cy
~ 408~