________________
आगम
(१८)
ལྦ , ཏུལླཱ ཡྻ
[६२-६७]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३],
मूलं [४५] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृतिः
॥२०३॥
गत्या गत्यालापकव्याख्या प्राग्वत् नवरं सिंहया - सिंहगतिसमानया अतिमहता बलेनारब्धत्वात् यच्च पूर्व ऋषभ| देव निर्वाणकल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्तेरिति मन्तव्यं यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपन्नो नभोगतो देवानामभूमिचारित्वात् सकिंकिणीकानि-क्षुद्रघण्टिकाभिः सह गतानि पञ्चवर्णानि च वस्त्राणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः| परिहितवान्, यथा पञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किमुक्तं भवति ?- किंकिणीग्रहणेन तस्य | नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्तिः प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेवकोऽस्मि न तु छन्नमिति ज्ञापनार्थं तत्सहित उपागतः, अथवा सकिंकिणीकानि - बद्धकिंकिणीकानि तद्बन्धश्च शोभातिशयार्थ, करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत्, अत्र प्राग्वद् व्याख्यानमिति । किमवादीदित्याह - 'अभिजिए णमित्यादि, अभिजितं आज्ञावशं वदीकृतं देवानुप्रियैः- वन्द्यपादैः केवलकल्पं - सम्पूर्णत्वात् केवलज्ञानसदृशं भरतं वर्ष भरतक्षेत्रं पूर्वस्यां मागधतीर्थमर्यादया- मागधतीर्थं यावत्, तदहं देवानुप्रियाणां विषयवासी देशवासी अत एवाहं देवानुप्रियाणामाज्ञतिकिङ्करःआज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः- पूर्वदिकसम्बन्धी अन्तं त्वदादेश्यदेशसम्बन्धिनं पालयति-रक्षयति उपद्रवादिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवादिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहणणं देवाणुप्पिआणं'
Fur Free & Use Cy
~ 409~
| श्वक्षस्कारे मागधतीकुमारसाधनं सू. ४५
॥२०३॥