________________
आगम
(१७)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [३४]
चन्द्रप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृत [१],
प्राभृतप्राभृत [८],
मूलं [२०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
मण्डलपदानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकपष्टिभागा योजनस्य, उपलक्षणमेतत् अनियतानि चायामविष्कम्भपरिधिभिः तथा सर्वाण्यपि च मण्डलान्तरकाणि - मण्डलान्तराणि, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्येवंरूपो, णमिति वाक्यालङ्कारे, अध्वा-पन्थाख्यशी|त्यधिकशतप्रत्युत्पन्नः- त्र्यशीत्यधिकेन शतेन गुणितः सन् पञ्चदशोत्तराणि योजनशतान्याख्याता इति वदेत्, तथाहि-द्वे योजने त्र्यशीत्यधिकेन शतेन गुण्येते जातानि त्रीणि शतानि षट्षष्ट्यधिकानि ३६६, येऽपि च अष्टाचत्वारिंशदेकप|ष्टिभागास्तेऽपि व्यशीत्यधिकेन शतेन गुण्यन्ते जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, तेषां योजनानयनार्थमेकषष्ट्या भागो हियते, लब्धं चतुश्चत्वारिंशं योजनशतं १४४, तत् पूर्वराशौ प्रक्षिप्यते, जातानि पश्च शतानि दशोत्तराणि ५१०, अस्यैवार्थस्य व्यक्तीकरणार्थं भूयः प्रश्नसूत्रमाह-- 'ता अभितराओ' इत्यादि, 'ता' इति तत्र अभ्यन्तरात्- सर्वाभ्यन्तरान्मण्डलपदात् परतो यावद्वाह्यं सर्वबाह्यं मंडलपदं बाह्याद्वा सर्वबाह्याद्वा मण्डलपदादवक यावत्सर्वाभ्यन्तरं मण्डलपदमेष- एतावान् अध्वा कियान् कियत्प्रमाण आख्यात इति वदेत् ?, एवमुक्ते गौतमेन भगवानाह-'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत् । स्वशिष्येभ्यः, पचदशोत्तरयो| जनशतभावना प्रागुकानुसारेण स्वयं परिभावनीया, 'अग्भितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलपदादारभ्य यावद्वाह्यं सर्वत्राह्यं मण्डलपदं यदिवा बाह्येन सर्वबाह्येन मण्डलपदेन सर्वबाह्यान्मण्डलपदादारभ्य | यावत्सर्वाभ्यन्तरं मण्डलं एष एतावान् अध्वा कियानाख्यात इति वदेत् १, भगवानाह - 'ता पंचे'त्यादि, स एतावान्
Education International
For Pernal Use On
~94~
war