________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभत [१] ....... ......--- प्राभतप्राभूत [१], .................- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[११]
दीप अनुक्रम [२५]
पवूद्धी रात्रिन्दिवानां कथं भवत इत्याह-मुहुत्ताणंचयोवचएण'मुहूर्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन-अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धिः, इयमत्र भावना-परिपूर्णपञ्चदशमुहूर्तप्रमाणे दिवसरात्रीन भवतो, हीनाधिकपञ्चदशमुहूर्तप्रमाणे तु दिवसरात्री भवतः, पर्व 'अन्नत्थ वा अणुवायगईए'इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगते:-अनुसारगतेः पञ्चदशमुहूत्तों दिवसः पञ्चदशमुहूर्ता वा रात्रिनं भवति, अनुसारगत्या तु भवत्येव, साचानुसारगतिरेवं-यदि ज्यशीत्यधिकशततमे मण्डले षण्मुहूर्त्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ यो मुहूर्ताःप्राप्यन्ते,व्यशीत्यधिकशतस्य वाई सार्दा एकनवतिः तत आगतं एकनवतिसकोषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्या॰ गते पञ्चदश मुहर्ताः प्राप्यन्ते, तवस्तत उ रात्रिकल्पनायां पश्चदशमुहूत्तों दिवसः, पञ्चदशमुहूर्ता च रात्रिर्लभ्यते नान्यथेति, 'गाहाओ भणितव्याओ'त्ति अत्र अनन्तरोक्तार्थसवाहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबाहुवामिना या नियुक्तिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता 'भणितव्याः'पठनीयाः, ताश्च सम्पति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति ।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं । समाप्तं तदेवमुक्त प्रथमस्य प्राभृतस्य प्रथम प्राभृतप्राभृत सम्पति द्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह
अत्र प्रथमे प्राभूते प्राभृतप्राभृतं-१ परिसमाप्तं
अथ प्रथमे प्राभूते प्राभृतप्राभूतं- २ आरभ्यते
~ 38~