________________
आगम
(१५)
प्रत
सूत्रांक
[२९४]
दीप
अनुक्रम [५४१]
“प्रज्ञापना”
उपांगसूत्र-४ (मूलं+वृत्ति:)
उद्देशक: [२], दारं [-], मूलं [२९४] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [२३],
मुनि दीपरत्नसागरेण संकलित..
Education International
-
भावना स्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग' मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात्, नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ, किमुक्तं भवति १ - सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेर्विंशतिसागरोपमकोटाकोटीप्रमाणत्वात्, तद्बन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भाषात्, असंज्ञिपञ्चेन्द्रियकर्मबन्धस्य च जघन्येनै केन्द्रियजघन्य कर्मबन्धापेक्षया सहस्रगुणत्वात्, भावयिष्यते चायमर्थो वैक्रियचिन्तायां, देवगतिनानो जघन्यतः सागरोपमसहस्रस्यैकः सप्तभागः, एकः सागरोपमस्य सप्तभागः सहस्रगुणित इति भावः, तस्य हि उत्कृष्टा स्थितिर्दश सागरोपम कोटी कोटयः, ततः प्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चास्य जघन्यतोऽसंज्ञिपञ्चेन्द्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसवेयस्स' इति 'दस सागरोवमकोडीओ दसवाससयाई अवाहा, अबाहूणिया कम्मठिई कम्मनिसेगो' इति वक्तव्यमिति भावः, द्वीन्द्रियजातिनामसूत्रे 'जहनेणं नव पणतीसहभागा पलिओचमस्स असंखेजइभागेण ऊणगा' इति, द्वीन्द्रियजातिनाम्रो युत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोटयः, 'अट्ठारस सुडुमविगलतिगे' त्ति [सूक्ष्मा विकलेन्द्रियाश्चाष्टादश ] वचनात्, ततोऽष्टादशानां सागरोपमकोटीकोटीनां मिध्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटा कोटीप्रमाणया भागो हियते, भागश्च न पूर्यते, ततः शून्यं शून्येन पात्यते, जाता उपरि अष्टादश अधस्तात् सप्ततिस्तयोर नापवर्त्तनालब्धा नव पञ्चत्रिंशद्भागास्ते पल्योपमासङ्ख्येयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे
For Parts Only
~965~