________________
आगम
(१५)
प्रत
सूत्रांक
[२९३]
दीप
अनुक्रम [५४० ]
Eticatin
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:)
दारं [-],
मूलं [२९३]
उद्देशक: [२], ...आगमसूत्र [१५] उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [२३], मुनि दीपरत्नसागरेण संकलित..
यदुदया जन्तुशरीराण्यनुष्णप्रकाशकरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रिय चन्द्रनक्षत्रतारविमानरत्तौषधयस्तदु-द्योतनाम, तथा विहायसा गतिः - गमनं विहायोगतिः, ननु सर्वगतत्वात् विहायसस्ततोऽन्यत्र गतिर्न सम्भवतीति किमर्थ विशेषणं १, व्यवच्छेद्याभावात्, सत्यमेतत्, किन्तु यदि गतिरेवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्तत्याशङ्का स्यात्, अतस्तद्व्यवच्छेदार्थ विहायसा गतिः, न तु नारकादिपर्यायपरिणतिरूपेति विहायोगतिः, सा द्विविधा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता इंसगजवृपभादीनां अप्रशस्ता खरोष्ट्रमहिषादीनां तद्विपाकवेद्यं विहायोगतिनामकर्म द्विधा - प्रशस्त विहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति, तथा त्रसन्ति-उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनायें स्थानान्तरमिति प्रसा - द्वीन्द्रियादयस्तत्पर्याय परिणतिवेद्यं नामकर्मापि त्रसनाम, तथा यदुदयादुष्णाद्यभितापेऽपि तत्स्थान परिहारासमर्थाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावरा जायन्ते तत् स्थावरनाम, तथा वादरनाम यदुदयाज्जीया वादरा भवन्ति, वादरत्वं परिणामविशेषः, यद्वशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्याद्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयाद्वहूनामपि समुदितानां जन्तुशरीराणां चक्षुर्ब्राझता न भवति, उक्तं च श्रावकप्रज्ञप्ति - मुलटीकायां- "सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति, असन्तसूक्ष्मोऽतीन्द्रिय इत्यर्थः” इति, पर्यातकनाम यदुदयात् स्वयोग्यपर्याप्तिनिर्वर्त्तनसमर्थो भवति तत्पर्यासिनाम - आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,
For Parts Only
-------------
~951~
wor