________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९२]
मनोज्ञानि रूपाणि-खगतखस्त्रीगतचित्रादिगतानि मनोज्ञाः स्पर्शा-हंसतूल्यादिगता 'मणोसुहया' इति मनसि सुखार यस्खासौ मनःसुखस्तस्य भावो मनःसुखता, सुखितं मन इत्यर्थः, वाचि सुखं यस्यासी वाकसुखस्तस्य भावो वाक्-| सुखता, सर्वेषां श्रोत्रमनःप्रल्हादकारिणी वागिति तात्पर्यार्थः, काये सुखं यस्यासौ कायसुखस्तद्भावः कायसुखता, सुखितः काय इत्यर्थः, एते चाष्टी पदार्थाः सातावेदनीयस्खोदयेन प्राणिनामुपतिष्ठन्ते तत उक्तोऽष्टविधः सातवेदनीयस्यानुभावः, परतः सातावेदनीयस्योदयमुपदर्शयति-जं वेएइ पुग्गल'मित्यादि, यवेदयते पुद्गलं सकचन्दनादि। यान् वेदयते पुद्गलान् बहून् स्रक्चन्दनादीन् यं वा वेदयते पुद्गलपरिणाम देशकालवयोऽवस्थानुरूपाहारपरिणाम, 'वीससा वा पुग्गलाण परिणाम विस्रसया वा यं पुद्गलानां परिणामं कालेऽभिलषितं शीतोष्णादिवेदनाप्रतीकार-1 रूपं, तेन मनसः समाधानसम्पादनात् सातवेदनीयं कर्मानुभवति, सातवेदनीयकर्मफलं सातं वेदयते इत्यर्थः, उक्तः परत उदयः, सम्प्रति खत उदयमाह-'तेसिं वा उदएणंति तेषां या सातवेदनीयकर्मपुद्गलानामुदयेन मनोज्ञशब्दादिव्य तिरेकेणापि कदाचित् सुखं वेदयते, यथा नैरयिकास्तीर्थकरजन्मादिकाले 'एस णं गोयमा ।' इत्याधुपसंहारवाक्यं, 'असायावेयणिजस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनं पूर्ववत्, तथा चाह-'तहेच पुच्छा उत्तरं च' नवरमित्यादिना पूर्वसूत्रादस्य विशेषमुपदर्शयति, 'अमणुण्णा सहा' इत्यादि, अमनोज्ञाः शब्दाः-खरोष्ट्राश्वादिस|म्बन्धिन आगन्तुका अमनोज्ञा रसाः-खस्याप्रतिभासिनो दुःखजनकाः अमनोज्ञा गन्धा-गोमहिपादिमृतकडेवरा
दीप
अनुक्रम [५३९]
~ 927~