SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२५८] दीप अनुक्रम [५०० ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [२५८] उद्देशक: [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः पदं [२०], मुनि दीपरत्नसागरेण संकलित.. शीलतादयोऽस्यापि विद्यन्ते ततः किमस्यावधिज्ञानमुत्पद्यते किंवा न ? इति प्रश्नयति, 'जे णं भंते!' इत्यादि, यस्य शीलत्रतादिविषयविप्रकृष्टपरिणामभावात् अवधिज्ञानावरण कर्मणः क्षयोपशम उपजायते स उत्पादयेत्, शेषस्तु नेत्यर्थः ॥ अवधिज्ञानानन्तरं च मनः पर्यवज्ञानं द्रष्टव्यं मनःपर्यवज्ञानं चानगारस्य भवति "तं संजयस्स सचप्प मायरहियस्स विविहरिद्धिमतो" [ तत् संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमतः ] इति वचनात्, ततोऽनगारतामेव प्रश्नयति- 'जे णं भंते !' इत्यादि, मुण्डो द्विधा - द्रव्यतो भावतश्च, द्रव्यंतः केशाद्यपनयनेन भावतः सर्वसङ्गपरित्यागेन, तत्रेह द्रव्यमुण्डत्वासंभवाद् भावमुण्डः परिगृह्यते, मुण्डो भूत्वा अगारात् खाश्रयरूपाद् विनिर्गत्य न विद्यते अगारं गृहं द्रव्यतो भावतश्च यस्यासी अनगारः तद्भावोऽनगारता तां प्रत्रजितुं शक्नुयात् १, भगवानाह - नायमर्थः समर्थः, तिरथां भवस्वभावतः तथारूपपरिणामासंभवात्, अनगारताया अभावे मनःपर्यवज्ञानस्य चाभावः सिद्ध एव । यथा च तिर्यक्पञ्चेन्द्रियविषयं सूत्रकदम्बकमुक्तं तथा मनुष्यविषयमपि वक्तव्यं, नवरं मनुष्येषु सर्वभावसंभवात् मनः पर्यवज्ञान केवलज्ञानसूत्रे अधिके प्रतिपादयति- 'जे णं मंते । संचाएजा मुंडे भवित्ता' इत्यादि सुगमं, नवरं 'सिज्झेज्जा' इत्यादि, सिध्येत - समस्ताणिमैश्वर्यादिसिद्धिभाक् भवेत् बुध्येत -- लोकालोकखरूपमशेषमवगच्छेत् मुच्येत — भवोपग्राहि कर्मभिरपि किमुक्तं भवति ? --- सर्वदुःखानामन्तं कुर्यात् । वानमन्तरज्योतिष्कवैमानिकेषु प्रतिषेधो वक्तव्यः, नैरयिकस्य भवस्वा भाव्यान्नैरयिकदेव भवयोग्यायुबन्धासंभवात् For Parts Only ~803~ nirary or
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy