________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [१५-२२], -------------- मूलं [२४६-२५३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२४६-२५३]
दीप अनुक्रम [४८७-४९४]
ऊर्द्धमपर्याप्तत्यप्रसक्तेः, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, एतायन्तं कालं पर्याप्सलब्ध्यवस्थानसम्भवात् , अपर्यासो जपन्यत उत्कर्षतश्चान्तर्मुहूर्त, तत ऊईमवश्यं पर्याप्सलब्ध्युत्पत्तेः, नोपर्याप्सोनोअपर्याप्तश्च सिद्धः, स च साद्यपर्यवसितः, सिद्धत्वस्याप्रच्युतेः । सूक्ष्मद्वारे सूक्ष्मसूत्रे उत्कर्षतः पृथिवीकाल इति, यावान् पृथिवीकायिककायस्थितिकालस्तावान् वक्तव्यः । वादरसूत्र सुगम, अनयोश्च भावना प्रागेव कृता, नोसक्ष्मोनोवादरश्च सिद्धस्ततः साद्यपर्यवसितः । संजिद्वारे संज्ञिसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमिति, यदा कश्चिजन्तुरसंज्ञिभ्य उदृत्त्य संज्ञिषु समुत्पद्यते । तत्र चान्तर्मुहुर्त जीवित्वा भूयोऽपि असंज्ञित्पद्यते तदा लभ्यते, उत्कृष्टं सुगम । असंज्ञी जघन्यतोऽन्तर्मुहूर्त, सस चवं-कश्चित् संज्ञिभ्य उद्धृत्त्यासंज्ञित्पद्यते, तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि संज्ञिपु मध्ये समागच्छति, उत्कपतो वनस्पतिकालो, वनस्पतिकायस्थाप्यसंज्ञिग्रहणेन ग्रहणात् नोसंझिनोअसंज्ञी च सिद्धः, स च साधपर्यवसितः। भवसिद्धिकद्वारे 'भवसिद्धिए ण'मित्यादि, भवे सिद्धिर्यस्थासौ भवसिद्धिको भव्य इत्यर्थः, स चानादिसपर्यवसितः, अन्यथा भव्यत्वायोगात्, अभवसिद्धिकोऽभव्यः, स चानाद्यपर्यवसितः, अन्यथाऽभव्यत्वायोगात्, नोभव्योनोअभव्यश्च सिद्धः, ततः साद्यपर्यवसितः । अस्तिकायाः पश्चापि सर्वकालभाविनः, अद्धासमयोऽपि प्रवाहापेक्षया, तत उक्तं 'एवं जाव अद्धासमए,' चरमो भवो भविष्यति यस्य सोऽभेदाचरमो-भव्यस्त द्विपरीतोऽचरमः स चाभव्यस्तस्य चरमभवाभावात् , सिद्धच, तस्यापि चरमत्वायोगात्, तत्र चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात्,
~ 793~