________________
आगम
(१५)
प्रत
सूत्रांक
[२३९ ]
दीप
अनुक्रम [४८०]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-], दारं [८], मूलं [२३९] ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः
पदं [१८], मुनि दीपरत्नसागरेण संकलित...
हूर्त्ताभ्यधिकानीति तत्सप्तमनर कपृथिव्यपेक्षया द्रष्टव्यं तत्रत्या हि नैरयिकाः कृष्णलेश्याकाः, तेषां च स्थितिरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, यत्तु पूर्वोत्तरभवगते यथाक्रमं चरमाद्ये अन्तर्मुहूर्त्ते ते द्वे अप्येकं, अन्तर्मुहूर्त्तस्यासङ्ख्यात भेदभिन्नत्वात्, तथा चान्यत्राप्युक्तम्- “मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया । उनकोसा होइ ठिई नायवा कण्हलेसाए ॥१॥ [ मुहूर्त्ता तु जघन्या त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा । मुहर्त्ताधिका भवति स्थितिः कृष्णलेश्यायाः ॥ १ ॥ ] अत्र 'मुहुत्तहिया' इति चूर्णिकृता व्याख्यातमन्तर्मुहूर्त्ताधिकेति, नीललेश्यासूत्रे यानि दश सागरोपमाणि |पल्योपमासङ्ख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया वेदितव्यानि, तत्र हि प्रथमप्रस्तटे नीललेश्या 'पंचमियाए मीसा' [पञ्चम्यां मिश्रा ] इति वचनात् तस्मिंश्च प्रथमप्रस्तटे स्थितिरुत्कर्षत एतावती, ये तु पूर्वोत्तरभवगते अन्तर्मुहूर्चे ते पल्योपमासङ्ख्येयभागे एवान्तर्गते इति न पृथग्विवक्षिते, एवमुत्तरत्रापि द्रष्टव्यं कापोतलेश्यासूत्रे त्रीणि सागरोपमाणि पल्योपमासङ्ख्येयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात्, 'तईयाए मीसिया' [ तृतीयस्यां मिश्रा ] इति वचनात् तत्र चोत्कृष्टस्थितेरेतावत्याः सम्भवात्, तेजोलेश्या सूत्रे द्वे सागरोपमे पत्योपमासत्येयभागाभ्यधिके ईशान देवलोक देवापेक्षया वेदितव्ये, ते हि तेजोलेश्याका उत्कर्षत एतावस्थितिकाः, पद्मलेश्यासूत्रे दश सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधि| कानि ब्रह्मलोकापेक्षया भावनीयानि, तत्र हि देवानां स्थितिरुत्कृष्टा दश सागरोपमाणि लेश्या च पद्मलेश्या, ये च
For Penal Use On
~ 777 ~