________________
आगम
(१५)
प्रत
सूत्रांक
[२३२]
+
गाथा:
दीप
अनुक्रम
[४७१
-४७३]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दारं [१२],
पदं [१८],
उद्देशक: [-], मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
'तिरिक्खजोगिणी णं भंते!' इत्यादि, इहोत्तरत्र च जघन्यान्तर्मुहूर्त्त भावना प्रागुक्तान्तर्मुहूर्त्त भावनानुसारेण स्वयं भावनीया, उत्कर्षतस्त्रीणि पत्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि कथं इति चेत् ?, उच्यते, इह तिर्यचानुष्याणां सन्जिपञ्चेन्द्रियाणामुत्कर्षतोऽप्यष्टौ भवाः कार्यस्थितिः "नरतिरियाण सत्तट्ठ भवा" [नरतिरक्षा सप्ताष्टौ (वा) भवाः ] इति वचनात् तत्रोत्कर्षस्य चिन्त्यमानत्वात् अष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः परिगृल्लन्ते, असयेय वर्षायुष्कस्तु मृत्वा नियमतो देवलोके पूत्पद्यते न तिर्यक्षु, ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः अष्टमस्तु |पर्यन्तवर्त्ती देवकुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि भवन्ति ' एवं मणुस्सेवि मणुस्सीवि' इति, एवं तिर्यक्त्रीगतेन प्रकारेण मनुष्योऽपि मानुष्यपि च वक्तव्या, किमुक्तं भवति १ – मनुष्यसूत्रे मानुषीसूत्रे च जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्याभ्यधिकानि वक्तव्यानीति, सूत्रपाठस्त्वेवं- 'मणुस्से णं भंते ! मणुस्सत्ति कालओ केव चिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुद्दत्तं उकोसेणं तिन्नि पलिओ माई पुत्रकोडी पुदुत्तमम्भहियाई, मणुस्सी णं भंते ! मणुस्सित्ति कालओ केवश्चिरं होइ' इत्यादि, देवसूत्रे 'जहेब नेरइए' इति, यथैव नैरयिकः प्रागुक्तः तथैव देवोऽपि वक्तव्यः, देवस्यापि जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्साग रोपमाणि वक्तव्यानीति भावः, देवा अपि हि खभवाच्युत्वा न भूयोऽनन्तरं देवत्वेनोपपद्यन्ते " नो देवे देयेसु उचवजह" [न देवो देवेषूत्पद्यते ] इति वचनात् ततो यदेव देवानामपि भवस्थितेः परिमाणं तदेव कायस्थितेरपि,
Education Internation
For Parts Only
~ 755 ~
Sinerary org