________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], -------------- दारं [१,२], -------------- मूलं [२३२] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३२]
गाथा:
कायस्थितिरिति कः शब्दार्थः १, उच्यते, काय इह पर्यायः परिगृह्यते, काय इव काय इत्युपमानात् , स च द्विधासामान्यरूपो विशेषरूपश्च, तत्र सामान्यरूपो निर्विशेषणो जीवत्वलक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः तस्य स्थितिः-अवस्थानं कायस्थितिः, किमुक्तं भवति ?-सामान्यरूपेण विशेषरूपेण वा पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन भवनं सा कायस्थितिः, ततः प्रथमतः सामान्यरूपेण पर्यायेणादिष्टस्याव्यवच्छेदेन यद भवनं तचिचिन्त-18 यिषुराह-'जीवे णं भंते!' इत्यादि, इह जीवनपर्यायविशिष्टो जीव उच्यते, ततः प्रश्नयति-जीवा 'ण' इति वाक्या-1 लङ्कारे भदन्त ! जीव इति जीवनपर्यायविशिष्टतया इत्यर्थः 'कालतः कालमधिकृत्य 'कियश्चिरं कियन्तं कालं यावद्भवति !, भगवानाह-गौतम ! 'सर्वाद्धां' सर्वकालं यावत्, कथमिति चेत् , उच्यते, इह जीवनमुच्यते प्राणधारणं, प्राणाथ द्विधा-द्रव्यप्राणा भावप्राणाश्च, द्रव्यप्राणा इन्द्रियपञ्चकवलत्रिकोच्छ्रासनिःश्वासायुःकर्मानुभ-10 विलक्षणाः, भावप्राणाः ज्ञानादयः, तत्र संसारिणामायुःकर्मानुभवलक्षणप्राणधारण सदैवावस्थितं, न हि सा का-18 चिदवस्था संसारिणामस्ति यस्खामायुःकर्मानुभवनं न विद्यते इति, मुक्तानां तु ज्ञानादिरूपप्राणधारणमवस्थितं, मुक्कानामपि हि ज्ञानादिरूपाः प्राणाः सन्ति, यैर्मुक्तोऽपि द्रव्यप्राणैः जीवतीति व्यपदिश्यते, ते च ज्ञानादयो । मुक्तानां शाश्वतिकाः, अतः संसार्यवस्थायां मुक्तावस्थायां च सर्वत्र जीवनमस्तीति सर्वकालभावी जीवनपर्यायः ॥ सम्प्रति तस्यैव जीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्य तैरेव पर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाह-'नेरइए णं भंते।
दीप अनुक्रम
सत्र
[४७१
-४७३]
~753~