SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२७] दीप अनुक्रम [४६५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [४], दारं [-], मूलं [२२७] ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित.. Education Internationa एव फलं कटुकतुम्बीफलं, खारतउसीति खारशब्दः कटुकवाची तथाऽऽगमे अनेकथा प्रसिद्धेः, ततः कटुका त्रपुषी क्षारत्रपुपी तस्या एव फलं क्षारत्रपुपीफलं देवदाली - रोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुडी-लोकतोऽवसेया तस्या एव फलं मृगवालुकीफलं घोपातकी प्रसिद्धा तस्या एव फलं घोषात कीफलं कृष्णकन्दो - वज्रकन्दश्चानन्तका यवनस्पतिविशेषौ लोकतः प्रत्येतव्यौ, एतावति उक्ते गौतमः पृच्छति - भगवन् ! भवेत् रसतः कृष्ण| लेश्या एतद्रूपा -- निम्बादिरूपा १, भगवानाह गौतम । नायमर्थः समर्थः, यतः कृष्णलेश्या इतो - निम्बादिरसमधिकृत्या निष्टतरिकैवेत्यादि प्राग्वत् । 'नीललेसाए' इत्यादि, भङ्गी - वनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठाचित्रमूलके लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पली चूर्णमरिचमरिचचूर्णशृङ्गवेरशृङ्गवेर चूर्णान्यपि प्रसिद्धानि । 'काउलेस्साए' इत्यादि, आम्राणां फलानामेवं सर्वत्रापि भावनीयं 'अंबाडयाण वा' इति आम्राटका :फलविशेषाः मातुलिङ्गविल्वक पित्थपनसदाडिमानि प्रतीतानि पारापताः फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि - बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपक्कानां तत्र सर्वथापि अपक्कं फलमुच्यते तत आह—अपरिपाकानां न विद्यते परिपाकः – परिपूर्णः पाको येषां तान्यपरिपाकानि तेषामीषत्पकानामित्यर्थः, एतदेव वर्णादिभिः कथयति वर्णेनातिविशिष्टेन गन्धेन प्राणेन्द्रियनिर्वृतिकरेण स्पर्शेन विशिष्टपरिपाका विनाभाविना अनुपपेतानां - असम्प्राप्तानां यादृशो रसः, अत्र गौतमः पृच्छति - एतद्रूपा - एवंरूपरसोपेता For Parts Only ------------- ~733~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy