________________
आगम
(१५)
प्रत
सूत्रांक
[२०१]
दीप
अनुक्रम [४३७]
पदं [१५],
मुनि दीपरत्नसागरेण संकलित
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
उद्देशक: [२],
दारं [-1,
मूलं [२०१]
आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रज्ञापनायाः मल
॥३१६॥
वा' इति, सर्वार्थसिद्धस्त्वनन्तरभवे नियमतः सिद्ध्यति ततस्तस्याजघन्योत्कृष्टं पुरस्कृता अष्टाविति । बहुवचन चिन्तायां नैरविकसूत्रे बद्धानि द्रव्येन्द्रियाण्यसङ्ख्येयानि, नैरयिकाणामसङ्ख्यातत्वात् एवं शेषसूत्रेष्वप्युपयुज्य वक्तव्यं, नवरं य० वृत्ती. मनुष्यसूत्रे 'सिय संखेज्जा सिय असंखेजा' इह सम्मूर्च्छिममनुष्याः कदाचित् सर्वथा न सन्ति तदन्तरस्य चतुविंशतिमुहूर्त्त प्रमाणस्य प्रागभिधानात् तत्र यदा पृच्छासमये सर्वथा न सन्ति तदा सङ्ख्येयानि, गर्भजमनुष्याणां सङ्ख्येयत्वात् यदा तु सम्मूर्च्छिमा अपि सन्ति तदा असङ्ख्येयानि, सर्वार्थसिद्धमहाविमानदेवाः सङ्ख्येयाः, वादरत्वे महाशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात् ततो वद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि सङ्ख्येयानि, 'एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते' इत्यादि, 'कस्सइ अत्थि कस्सर नत्थि' इति यो नरकादुदृत्तो भूयोऽपि नैरथिकत्थं नावाप्स्यति तस्य न भवन्ति, यस्त्ववाप्स्यति तस्य सन्ति, सोऽपि यद्येकवारमागामी ततोऽष्टौ द्वौ वारौ चेत् तर्हि पोडश यदि त्रीन् वारान् ततश्चतुर्विंशतिः सङ्ख्येयान् वारान् आगामिनः सङ्ख्येयानीत्यादि, मनुष्यत्यचिन्तायां 'कस्सइ अस्थि कस्सइ गत्थि' इति न वक्तव्यं, मनुष्येष्यागमनस्यावश्यंभावित्वात्, ततो जघन्यपदेऽष्टौ उत्कर्षतोऽनन्तानीति वक्तव्यं, विजयवैजयंतजयन्तापराजित चिन्तायां अतीतानि द्रव्येन्द्रियाणि न सन्ति, कस्मादिति चेत् ?, उच्यते, इह विजयादिषु चतुर्षु गतो जीवो नियमात् तत उद्वृत्तो न जातुचिदपि नैरयिकादिपञ्चेन्द्रियतिर्यक्पर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति तथाखाभान्यात्, मनुष्येषु सौधर्मादिषु चागमिष्यति, तत्रापि -
Ja Education International
For Penal Use On
~636~
१५ इन्द्रियपदे | उद्देशः २
॥३१६॥