________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं -1, ------ ---------- मूलं [१९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१९१]
दीप अनुक्रम [४२१]
नाविधा, अभ्यन्तरा तु निर्वृतिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि
सूत्राणि, केवलं स्पर्शेन्द्रियस्य निर्वृतेर्वाह्याभ्यन्तरभेदो न प्रतिपत्तव्यः, पूर्वसूरिभिनिषेधाद्, अत एव च बायसंस्थाISI नविषयमेव तत्सूत्रं वक्ष्यति-‘फासिदिए णं भंते! किंसंठाणसंठिए पण्णत्ते' इति, उपकरणं खड्गस्थानीयाया
बाह्यनिर्वृता खाधारासमाना स्वच्छतरपुद्गलसमूहात्मिका, अभ्यन्तरा निर्वृतिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिवृतेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृतौ द्रव्यादिनोपकरणस्य विधातसम्भवात् , तथाहि-सत्यामपि कदम्बपुष्पाधाकृतिरूपायामान्तरनिर्वृता-18 वतिकठोरतरघनगर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालब्धिः उपयोगश्च, तत्र लब्धिः-श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः-खखविषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानमाह । साम्प्रतमाभ्यन्तरां निर्वृतिमधिकृत्य संस्थानादि विचिन्तयिपुः प्रथमतः संस्थानं चिन्तयति-'सोइंदिए णं भंते! किंसंठिए पण्णत्ते' इत्यादि पाठसिद्धं, अधुना बाहल्यं चिन्तयति-'सोईदिए णं भंते ! केवइयं बाहल्लेणं पण्णत्ते' इत्यादि, इदमपि पाठसिद्धम् , उक्तश्थायमर्थोऽन्यत्रापि-"बाहलतो य सबाई अंगुलअसंखभाग"मिति [वाहल्यतश्च सर्वाणि अङ्गुलासङ्ख्यभागमानानि । अत्राह-यद्यङ्गुलस्यासययभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खड्गारिकाद्यभिघाते अन्तः शरीरस्य वेदनानुभवः ?, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वा
~591~