SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१८१ -१८२] दीप अनुक्रम [४०५ -४०६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दार [-], मूलं [१८१-१८२] ... आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१३], मुनि दीपरत्नसागरेण संकलित.. प्रज्ञापनाया मल य० वृत्ती. ॥ २८५॥ | लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेश्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्याया जघन्या उत्कृष्टा च स्थितिः प्रतिपादिता--"मुदुत्तद्धं तु जहन्ना उकोसा होइ पुत्रकोडी उ । नवहिं वरिसेहिं ऊणा नायचा सुकलेसाए ॥ १ ॥” इति सा च नववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाः सयोगिकेव8 लिन्युपपद्यते, नान्यत्र, कषायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामो लेश्यापरिणामाऽविनाभूतो लेश्यापरिणामश्च कषायपरिणामं विनापि भवति, ततः कषायपरिणामानन्तरं लेश्यापरिणाम उक्तः, नतु लेश्यापरिणामानन्तरं कषायपरिणामः ४, तथा लेश्यापरिणामो योगपरिणामात्मको 'योगपरिणामो लेश्या' इति वचनात्, उपपादयिष्यते चायमर्थो लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः ५ संसारिणां योगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः ६ सति चोपयोगपरिणा मे ज्ञानपरिणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः ७ ज्ञानपरिणामश्च द्विधा - सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामश्च, तौ च न सम्यक्त्वमिध्यात्वव्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः ८ सम्यग्दर्शनपरिणामे जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो दर्शनपरिणामानन्तरं चारित्रपरिणाम उक्तः ९ चारित्रपरिणामवशाचे वेदपरिणामं प्रलयमुपनयन्ति महासत्त्वास्तत १ जघन्या मुहूर्खान्वरेव भवति उत्कृष्टा पूर्वकोयेव । नवभिर्वर्षैरूना ज्ञातव्या शुकुलेश्यायाः (स्थितिः) ॥ १ ॥ For Parts Only ~574~ १३ परिणामपदं ॥ २८५ ॥ waryra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy