SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ आगम (१५) "प्रज्ञापना" - पदं [१३], ------------- उद्देशकः [-], ------------- दारं [-], ------------- मूलं [१८१-१८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८१-१८२] परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिक. अजीवस्य परिणामोऽजीवपरिणामः, स वैश्रसिकः, चशब्दौ खगतानेकभेदसूचकी, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह-'जीवपरिणामे णं भंते !' इत्यादि, दशविधो जीवपरिणामः, तद्यथा-गतिपरिणाम इत्यादि.IN तत्र गम्यते नैरयिकादिगतिकर्मोदयवशादयाप्यते इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः गतिरेव परिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्चर्ययोगात् तस्येदं, 'इन्द्रिय'मिति निपातनादिन्द्रशब्दा|दियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः २, तथा कर्षन्ति-हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कषः-संसारस्तमयन्ते-अन्तर्भूतण्यर्थत्वात् गमयन्ति प्रापयन्ति ये ते कषायाः 'कर्मणोऽणि'त्यण् प्रत्ययः, कषाया| Kएव परिणामः कपायपरिणामः ३, लेश्यादिशब्दार्थों वक्ष्यमाणः, लेश्या एव परिणामो लेश्यापरिणामः ४ योग एव परिणामो योगपरिणामः ५ उपयोग एव परिणाम उपयोगपरिणामः ६ एवं ज्ञानपरिणाम ७ दर्शनपरिणाम ८चारित्रपरिणाम ९ वेदपरिणामेष्वपि भावनीयं । सम्प्रत्यमीषां पदानामित्थं क्रमेणोपन्यासे कारणमभिधीयते-तत्र सर्वे भावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुषष्यन्ति ततः प्रथमं गतिपरिणामः १ गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः २ इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्राग-1 द्वेषपरिणतिरुपजायते इति तदनन्तरं कपायपरिणामः ३ कषायपरिणामश्वावश्यं लेश्यापरिणामाविनाभावी, तथाहि दीप अनुक्रम [४०५-४०६] ~573~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy