________________
आगम
(१५)
प्रत
सूत्रांक
[... १८०]
दीप
अनुक्रम
[४०४]
प्रज्ञापनाया: मल
य० वृत्ती.
॥२८२॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१२],
उद्देशक: [-], ------------- दारं [-],
मूलं [... १८० ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशत् एतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिर्निष्ठामियर्त्ति तावत् मनुष्या अपि निष्ठामुपयान्ति, आह-- कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाः असङ्ख्या उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते, क्षेत्रस्यातिसूक्ष्मत्वात् उक्तं च सूत्रेऽपि - "सुहुंमो य होइ कालो तत्तो सुद्दमयरथं हवइ खेत्तं । अंगुल| सेढीमेत्ते उस्सप्पिणीओ असंखेजा ॥ १ ॥” इति, मुक्तान्यधिकमुक्तवत्, वैक्रियाणि वद्धानि सङ्ख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात्, मुक्तान्यौधिकमुक्तवत्, आहारकाण्यौधिकाहारकवत्, तेजसकार्मणानि वद्धानि बद्धौदारिकवत्, मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैक्रियाणि बद्धान्यसङ्ख्येयानि तत्र कालतः परिमाणचिन्तायां प्रतिसमय मेकैकापहारे असङ्ख्येयाभिरुत्सपिण्यव सर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयाः श्रेणयः, असङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, ताश्च श्रेणयः कियत्य इति चेत् , उच्यते, प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभागप्रमिता इत्यर्थः, तथा चाह - 'वेउवि - यसरीरा जहा नेरइयाण' मिति, वैक्रियशरीराणि व्यन्तराणां यथा नैरथिकाणां, केवलं सूच्यां विशेषः, तथा चाहू'नवर' मित्यादि, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, सा च सुप्रसिद्धत्वान्नोक्ता, कथं सुप्रसिद्धेति
१ सूक्ष्मञ्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्र । अङ्गुलमात्रायां श्रेणात्सर्पिण्योऽसङ्ख्येयाः ॥ १ ॥
Education Intention
For Parts Only
~ 568~
१२ शरीरपदं
મારકા